Sukta 7.18
पुरोळा इत्तुर्वशो यक्षुरासीद्राये मत्स्यासो निशिता अपीव । श्रुष्टिं चक्रुर्भृगवो द्रुह्यवश्च सखा सखायमतरद्विषूचोः ॥
पु॒रो॒ळा इत्तु॒र्वशो॒ यक्षु॑रासीद्रा॒ये मत्स्या॑सो॒ निशि॑ता॒ अपी॑व । श्रु॒ष्टिं च॑क्रु॒र्भृग॑वो द्रु॒ह्यव॑श्च॒ सखा॒ सखा॑यमतर॒द्विषू॑चोः ॥
puroḷā́ it turváśo yákṣur āsīd rāyé matsyā́so níśitā ápīva | śruṣṭíṃ cakrur bhṛ́gavo druhyávaś ca sákhā sákhāyam atarad víṣūcoḥ ||
Turvaśa and Yakṣu became as the offering-cake itself for the gaining of plenitude; the Matsyas, sharpened like a blade, moved as if to drink it in. The Bhṛgus and the Druhyus raised the clamor of assault; friend crossed beyond friend amid the diverging currents of conflict.
पु॒रो॒ळाः । इत् । तु॒र्वशः॑ । यक्षुः॑ । आ॒सी॒त् । रा॒ये । मत्स्या॑सः । निऽशि॑ताः । अपि॑ऽइव । श्रु॒ष्टिम् । च॒क्रुः॒ । भृग॑वः । द्रु॒ह्यवः॑ । च॒ । सखा॑ । सखा॑यम् । अ॒त॒र॒त् । विषू॑चोः ॥पुरोळाः । इत् । तुर्वशः । यक्षुः । आसीत् । राये । मत्स्यासः । निशिताः । अपिइव । श्रुष्टिम् । चक्रुः । भृगवः । द्रुह्यवः । च । सखा । सखायम् । अतरत् । विषूचोः ॥puroḷāḥ | it | turvaśaḥ | yakṣuḥ | āsīt | rāye | matsyāsaḥ | ni-śitāḥ | api-iva | śruṣṭim | cakruḥ | bhṛgavaḥ | druhyavaḥ | ca | sakhā | sakhāyam | atarat | viṣūcoḥ