Sukta 7.18
अर्णांसि चित्पप्रथाना सुदास इन्द्रो गाधान्यकृणोत्सुपारा । शर्धन्तं शिम्युमुचथस्य नव्यः शापं सिन्धूनामकृणोदशस्तीः ॥
अर्णां॑सि चित्पप्रथा॒ना सु॒दास॒ इन्द्रो॑ गा॒धान्य॑कृणोत्सुपा॒रा । शर्ध॑न्तं शि॒म्युमु॒चथ॑स्य॒ नव्य॒: शापं॒ सिन्धू॑नामकृणो॒दश॑स्तीः ॥
arṇā́ṃsi cit paprathānā́ su-dā́sa índro gādhā́ny akṛṇot su-pā́rā | śárdhantaṃ śimyúm ucáthasya návyaḥ śā́paṃ síndhūnām akṛṇod áśastīḥ ||
Even when the flood-waters had spread wide, Indra for Sudās made the fords and the safe crossings. He, ever new in his inspired utterance, subdued the hostile Śimyu who pressed in ranks, and turned the curse of the rivers into a movement that cannot malign.
अर्णां॑सि । चि॒त् । प॒प्र॒था॒ना । सु॒ऽदासे॑ । इन्द्रः॑ । गा॒धानि॑ । अ॒कृ॒णो॒त् । सु॒ऽपा॒रा । शर्ध॑न्तम् । शि॒म्युम् । उ॒चथ॑स्य । नव्यः॑ । शाप॑म् । सिन्धू॑नाम् । अ॒कृ॒णो॒त् । अश॑स्तीः ॥अर्णांसि । चित् । पप्रथाना । सुदासे । इन्द्रः । गाधानि । अकृणोत् । सुपारा । शर्धन्तम् । शिम्युम् । उचथस्य । नव्यः । शापम् । सिन्धूनाम् । अकृणोत् । अशस्तीः ॥arṇāṃsi | cit | paprathānā | su-dāse | indraḥ | gādhāni | akṛṇot | su-pārā | śardhantam | śimyum | ucathasya | navyaḥ | śāpam | sindhūnām | akṛṇot | aśastīḥ