Sukta 7.18
इमा उ त्वा पस्पृधानासो अत्र मन्द्रा गिरो देवयन्तीरुप स्थुः । अर्वाची ते पथ्या राय एतु स्याम ते सुमताविन्द्र शर्मन् ॥
इ॒मा उ॑ त्वा पस्पृधा॒नासो॒ अत्र॑ म॒न्द्रा गिरो॑ देव॒यन्ती॒रुप॑ स्थुः । अ॒र्वाची॑ ते प॒थ्या॑ रा॒य ए॑तु॒ स्याम॑ ते सुम॒तावि॑न्द्र॒ शर्म॑न् ॥
imā u tvā paspṛdhānāso atra mandrā giro devayantīr upa sthuḥ | arvācī te pathyā rāya etu syāma te sumatāv indra śarman ||
These inspired utterances, eager to reach the Divine, press towards you here, O Indra, with a glad force. May the rightful path of plenitude turn towards us; may we abide in your luminous goodwill, in your sheltering peace.
इ॒माः । ऊँ॒ इति॑ । त्वा॒ । प॒स्पृ॒धा॒नासः॑ । अत्र॑ । म॒न्द्राः । गिरः॑ । दे॒व॒ऽयन्तीः॑ । उप॑ । स्थुः॒ । अ॒र्वाची॑ । ते॒ । प॒थ्या॑ । रा॒यः । ए॒तु॒ । स्याम॑ । ते॒ । सु॒ऽम॒तौ । इ॒न्द्र॒ । शर्म॑न् ॥इमाः । ऊँ इति । त्वा । पस्पृधानासः । अत्र । मन्द्राः । गिरः । देवयन्तीः । उप । स्थुः । अर्वाची । ते । पथ्या । रायः । एतु । स्याम । ते । सुमतौ । इन्द्र । शर्मन् ॥imāḥ | oṃ iti | tvā | paspṛdhānāsaḥ | atra | mandrāḥ | giraḥ | deva-yantīḥ | upa | sthuḥ | arvācī | te | pathyā | rāyaḥ | etu | syāma | te | su-matau | indra | śarman