Sukta 7.18
राजेव हि जनिभिः क्षेष्येवाव द्युभिरभि विदुष्कविः सन् । पिशा गिरो मघवन्गोभिरश्वैस्त्वायतः शिशीहि राये अस्मान् ॥
राजे॑व॒ हि जनि॑भि॒: क्षेष्ये॒वाव॒ द्युभि॑र॒भि वि॒दुष्क॒विः सन् । पि॒शा गिरो॑ मघव॒न्गोभि॒रश्वै॑स्त्वाय॒तः शि॑शीहि रा॒ये अ॒स्मान् ॥
rājéva hí janíbhiḥ kṣéṣyevā́va dyúbhir abhí vidúṣ kavíḥ sán | piśā́ gíro maghavan góbhiḥ áśvais tvāyatáḥ śiśīhi rāyé asmā́n ||
As a king among peoples you rule; as a knower, a seer, you encompass by your luminous days. O bountiful one, with brightening words, with cows and horses, sharpen us—turn us toward plenitude of being and spiritual wealth.
राजा॑ऽइव । हि । जनि॑ऽभिः । क्षेषि॑ । ए॒व । अव॑ । द्युऽभिः॑ । अ॒भि । वि॒दुः । क॒विः । सन् । पि॒शा । गिरः॑ । म॒घ॒ऽव॒न् । गोभिः॑ । अश्वैः॑ । त्वा॒ऽय॒तः । शि॒शी॒हि॒ । रा॒ये । अ॒स्मान् ॥राजाइव । हि । जनिभिः । क्षेषि । एव । अव । द्युभिः । अभि । विदुः । कविः । सन् । पिशा । गिरः । मघवन् । गोभिः । अश्वैः । त्वायतः । शिशीहि । राये । अस्मान् ॥rājāiva | hi | jani-bhiḥ | kṣeṣi | eva | ava | dyu-bhiḥ | abhi | viduḥ | kaviḥ | san | piśā | giraḥ | magha-van | gobhiḥ | aśvaiḥ | tvāyataḥ | śiśīhiḥrāyeḥasmān