Sukta 7.18
यस्य श्रवो रोदसी अन्तरुर्वी शीर्ष्णेशीर्ष्णे विबभाजा विभक्ता । सप्तेदिन्द्रं न स्रवतो गृणन्ति नि युध्यामधिमशिशादभीके ॥
यस्य॒ श्रवो॒ रोद॑सी अ॒न्तरु॒र्वी शी॒र्ष्णेशी॑र्ष्णे विब॒भाजा॑ विभ॒क्ता । स॒प्तेदिन्द्रं॒ न स्र॒वतो॑ गृणन्ति॒ नि यु॑ध्याम॒धिम॑शिशाद॒भीके॑ ॥
yásya śrávo ródasī antárurvī́ śīrṣṇéśīrṣṇe vibabhā́jā vibhaktā́ | saptéd índraṃ ná sraváto gṛṇanti ní yudhyāmadhím āśiśād abhī́ke ||
Indra—whose inspired renown fills the two worlds within their vastness, distributing its mastery from summit to summit—seven seers praise him like flowing streams. In the close encounter he has pressed down the battling assailant and made the conflict yield.
यस्य॑ । श्रवः॑ । रोद॑सी॒ इति॑ । अ॒न्तः । उ॒र्वी इति॑ । शी॒र्ष्णेऽशी॑र्ष्णे । वि॒ऽब॒भाज॑ । वि॒ऽभ॒क्ता । स॒प्त । इत् । इन्द्र॑म् । न । स्र॒वतः॑ । गृ॒ण॒न्ति॒ । नि । यु॒ध्या॒म॒धिम् । आ॒शि॒शा॒त् । अ॒भीके॑ ॥यस्य । श्रवः । रोदसी इति । अन्तः । उर्वी इति । शीर्ष्णेशीर्ष्णे । विबभाज । विभक्ता । सप्त । इत् । इन्द्रम् । न । स्रवतः । गृणन्ति । नि । युध्यामधिम् । आशिशात् । अभीके ॥yasya | śravaḥ | rodasī iti | antaḥ | urvī iti | śīrṣṇe--śīrṣṇe | vi-babhāja | vi-bhaktā | sapta | it | indram | na | sravataḥ | gṛṇanti | ni | yudhyāmadhim | āśiśāt | abhīke