Sukta 7.18
चत्वारो मा पैजवनस्य दानाः स्मद्दिष्टयः कृशनिनो निरेके । ऋज्रासो मा पृथिविष्ठाः सुदासस्तोकं तोकाय श्रवसे वहन्ति ॥
च॒त्वारो॑ मा पैजव॒नस्य॒ दाना॒: स्मद्दि॑ष्टयः कृश॒निनो॑ निरे॒के । ऋ॒ज्रासो॑ मा पृथिवि॒ष्ठाः सु॒दास॑स्तो॒कं तो॒काय॒ श्रव॑से वहन्ति ॥
catvā́ro mā paijavánasya dā́nāḥ smáddiṣṭayaḥ kṛśaníno nireké | ṛjrā́so mā pṛthivíṣṭhāḥ sudā́sas tokáṃ tokā́ya śrávase vahanti ||
Four are the gifts of Paijavana that bear me forward—well-directed, keen-edged energies in the decisive separation. The straight-going, earth-founded powers of Sudās carry for me the ‘child’ of the soul, for the child’s growth and for the widening of luminous fame.
च॒त्वारः॑ । मा॒ । पै॒ज॒ऽव॒नस्य॑ । दानाः॑ । स्मत्ऽदि॑ष्टयः । कृ॒श॒निनः॑ । नि॒रे॒के । ऋ॒ज्रासः॑ । मा॒ । पृ॒थि॒वि॒ऽस्थाः । सु॒ऽदासः॑ । तो॒कम् । तो॒काय॑ । श्रव॑से । व॒ह॒न्ति॒ ॥चत्वारः । मा । पैजवनस्य । दानाः । स्मत्दिष्टयः । कृशनिनः । निरेके । ऋज्रासः । मा । पृथिविस्थाः । सुदासः । तोकम् । तोकाय । श्रवसे । वहन्ति ॥catvāraḥ | mā | paija-vanasya | dānāḥ | smat-diṣṭayaḥ | kṛśaninaḥ | nireke | ṛjrāsaḥ | mā | pṛthivi-sthāḥ | su-dāsaḥ | tokam | tokāya | śravase | vahanti