Sukta 7.18
इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः । अविष्टना पैजवनस्य केतं दूणाशं क्षत्रमजरं दुवोयु ॥
इ॒मं न॑रो मरुतः सश्च॒तानु॒ दिवो॑दासं॒ न पि॒तरं॑ सु॒दास॑: । अ॒वि॒ष्टना॑ पैजव॒नस्य॒ केतं॑ दू॒णाशं॑ क्ष॒त्रम॒जरं॑ दुवो॒यु ॥
imáṃ naro marutaḥ saścátā́nu dívodāsaṃ ná pitáraṃ sudā́saḥ | aviṣṭánā paijavánasya kétaṃ dūṇā́śaṃ kṣatrám ajáraṃ duvoyú ||
O Maruts, O strong ones, accompany this Sudās as sons follow a father, even as (men) follow Divodāsa. You have willed into being the banner-sign of Paijavana—an unbroken, unconquered sovereignty, ageless, eager for the work of offering and service.
इ॒मम् । न॒रः॒ । म॒रु॒तः॒ । स॒श्च॒त॒ । अनु॑ । दिवः॑ऽदासम् । न । पि॒तर॑म् । सु॒ऽदासः॑ । अ॒वि॒ष्टन॑ । पै॒ज॒ऽव॒नस्य॑ । केत॑म् । दुः॒ऽनाश॑म् । क्ष॒त्रम् । अ॒जर॑म् । दु॒वः॒ऽयु ॥इमम् । नरः । मरुतः । सश्चत । अनु । दिवःदासम् । न । पितरम् । सुदासः । अविष्टन । पैजवनस्य । केतम् । दुःनाशम् । क्षत्रम् । अजरम् । दुवःयु ॥imam | naraḥ | marutaḥ | saścata | anu | divaḥ-dāsam | na | pitaram | su-dāsaḥ | aviṣṭana | paija-vanasya | ketam | duḥ-nāśam | kṣatram | ajaram | duvaḥ-yu