Sukta 7.18
द्वे नप्तुर्देववतः शते गोर्द्वा रथा वधूमन्ता सुदासः । अर्हन्नग्ने पैजवनस्य दानं होतेव सद्म पर्येमि रेभन् ॥
द्वे नप्तु॑र्दे॒वव॑तः श॒ते गोर्द्वा रथा॑ व॒धूम॑न्ता सु॒दास॑: । अर्ह॑न्नग्ने पैजव॒नस्य॒ दानं॒ होते॑व॒ सद्म॒ पर्ये॑मि॒ रेभ॑न् ॥
dvé naptúr devávataḥ śaté gór dvā́ ráthā vadhū́mantā sudā́saḥ | árhann agne paijavánasya dā́naṁ hóteva sádma páry emi rébhan ||
Sudās wins two hundreds of luminous cows from the divine-minded descendant, and two chariots rich with brides—powers of fulfilled union. O Agni, I honor the gift of Paijavana; like a priest I move around the sacred seat, singing the inspired word.
द्वे इति॑ । नप्तुः॑ । दे॒वऽव॑तः । श॒ते इति॑ । गोः । द्वा । रथा॑ । व॒धूऽम॑न्ता । सु॒ऽदासः॑ । अर्ह॑न् । अ॒ग्ने॒ । पै॒ज॒ऽव॒नस्य॑ । दान॑म् । होता॑ऽइव । सद्म॑ । परि॑ । ए॒भि॒ । रेभ॑न् ॥द्वे इति । नप्तुः । देववतः । शते इति । गोः । द्वा । रथा । वधूमन्ता । सुदासः । अर्हन् । अग्ने । पैजवनस्य । दानम् । होताइव । सद्म । परि । एभि । रेभन् ॥dve iti | naptuḥ | deva-vataḥ | śate iti | goḥ | dvā | rathā | vadhū-mantā | su-dāsaḥ | arhan | agne | paija-vanasya | dānam | hotāiva | sadma | pari | ebhi | rebhan