Sukta 7.18
प्र ये गृहादममदुस्त्वाया पराशरः शतयातुर्वसिष्ठः । न ते भोजस्य सख्यं मृषन्ताधा सूरिभ्यः सुदिना व्युच्छान् ॥
प्र ये गृ॒हादम॑मदुस्त्वा॒या प॑राश॒रः श॒तया॑तु॒र्वसि॑ष्ठः । न ते॑ भो॒जस्य॑ स॒ख्यं मृ॑ष॒न्ताधा॑ सू॒रिभ्य॑: सु॒दिना॒ व्यु॑च्छान् ॥
prá yé gṛhā́d amámadus tvāyā́ parāśaráḥ śatáyātur vásiṣṭhaḥ | ná te bhój asya sakhyáṁ mṛṣantā́dhā sūríbhyaḥ sudínā vyùcchān ||
Those who, from the home of being, have gladdened you—Parāśara and Vasiṣṭha of the hundred pathways—do not violate your friendship with the Lord of enjoyment. Then may bright days dawn wide for the seers, the leaders of the journey.
प्र । ये । गृ॒हात् । अम॑मदुः । त्वा॒ऽया । प॒रा॒ऽश॒रः । श॒तऽया॑तुः । वसि॑ष्ठः । न । ते॒ । भो॒जस्य॑ । स॒ख्यम् । मृ॒ष॒न्त॒ । अध॑ । सू॒रिऽभ्यः॑ । सु॒ऽदिना॑ । वि । उ॒च्छा॒न् ॥प्र । ये । गृहात् । अममदुः । त्वाया । पराशरः । शतयातुः । वसिष्ठः । न । ते । भोजस्य । सख्यम् । मृषन्त । अध । सूरिभ्यः । सुदिना । वि । उच्छान् ॥pra | ye | gṛhāt | amamaduḥ | tvāyā | parāśaraḥ | śata-yātuḥ | vasiṣṭhaḥ | na | te | bhojasya | sakhyam | mṛṣanta | adha | sūri-bhyaḥ | su-dinā | vi | ucchān