Sukta 7.18
न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः । देवकं चिन्मान्यमानं जघन्थाव त्मना बृहतः शम्बरं भेत् ॥
न त॑ इन्द्र सुम॒तयो॒ न राय॑: सं॒चक्षे॒ पूर्वा॑ उ॒षसो॒ न नूत्ना॑: । देव॑कं चिन्मान्यमा॒नं ज॑घ॒न्थाव॒ त्मना॑ बृह॒तः शम्ब॑रं भेत् ॥
ná ta indra sumatáyo ná rā́yaḥ saṁcákṣe pū́rvā uṣáso ná nū́tnāḥ | devákaṁ cin mānyamānáṁ jaghánthā́va tmánā bṛhatáḥ śámbaraṁ bhet ||
O Indra, your good discernments and your plenitudes are not exhausted—like the dawns, ever ancient and ever new. Even Devaka, who deemed himself great, you struck down; and by your own vast self you broke Śambara, the massive enclosure.
न । ते॒ । इ॒न्द्र॒ । सु॒ऽम॒तयः॑ । न । रायः॑ । स॒म्ऽचक्षे॑ । पूर्वाः॑ । उ॒षसः॑ । न । नूत्नाः॑ । देव॑कम् । चि॒त् । मा॒न्य॒मा॒नम् । ज॒घ॒न्थ॒ । अव॑ । त्मना॑ । बृ॒ह॒तः । शम्ब॑रम् । भे॒त् ॥न । ते । इन्द्र । सुमतयः । न । रायः । सम्चक्षे । पूर्वाः । उषसः । न । नूत्नाः । देवकम् । चित् । मान्यमानम् । जघन्थ । अव । त्मना । बृहतः । शम्बरम् । भेत् ॥na | te | indra | su-matayaḥ | na | rāyaḥ | sam-cakṣe | pūrvāḥ | uṣasaḥ | na | nūtnāḥ | devakam | cit | mānyamānam | jaghantha | ava | tmanā | bṛhataḥ | śambaram | bhet