Sukta 7.18
आवदिन्द्रं यमुना तृत्सवश्च प्रात्र भेदं सर्वताता मुषायत् । अजासश्च शिग्रवो यक्षवश्च बलिं शीर्षाणि जभ्रुरश्व्यानि ॥
आव॒दिन्द्रं॑ य॒मुना॒ तृत्स॑वश्च॒ प्रात्र॑ भे॒दं स॒र्वता॑ता मुषायत् । अ॒जास॑श्च॒ शिग्र॑वो॒ यक्ष॑वश्च ब॒लिं शी॒र्षाणि॑ जभ्रु॒रश्व्या॑नि ॥
ā́vad índraṁ yamúnā tṛ́tsavaś ca prā́tra bhedáṁ sarvátātā muṣāyat | ajā́saś ca śígravo yákṣavaś ca balíṁ śīrṣā́ṇi jabhrur áśvyāni ||
The Yamunā and the striving Tṛtsus brought Indra’s help; here Sarvatātā stole away the breaking (the means of division) from the foe. The Ajās, the Śigrus, and the Yakṣus brought tribute—heads and swift horse-powers—yielding their vital strengths to the victorious order.
आव॑त् । इन्द्र॑म् । य॒मुना॑ । तृत्स॑वः । च॒ । प्र । अत्र॑ । भे॒दम् । स॒र्वऽता॑ता । मु॒षा॒य॒त् । अ॒जासः॑ । च॒ । शिग्र॑वः । यक्ष॑वः । च॒ । ब॒लिम् । शी॒र्षाणि॑ । ज॒भ्रुः॒ । अश्व्या॑नि ॥आवत् । इन्द्रम् । यमुना । तृत्सवः । च । प्र । अत्र । भेदम् । सर्वताता । मुषायत् । अजासः । च । शिग्रवः । यक्षवः । च । बलिम् । शीर्षाणि । जभ्रुः । अश्व्यानि ॥āvat | indram | yamunā | tṛtsavaḥ | ca | pra | atra | bhedam | sarva-tātā | muṣāyat | ajāsaḥ | ca | śigravaḥ | yakṣavaḥ | ca | balim | śīrṣāṇi | jabhruḥ | aśvyāni