Sukta 7.18
त्वे ह यत्पितरश्चिन्न इन्द्र विश्वा वामा जरितारो असन्वन् । त्वे गावः सुदुघास्त्वे ह्यश्वास्त्वं वसु देवयते वनिष्ठः ॥
त्वे ह॒ यत्पि॒तर॑श्चिन्न इन्द्र॒ विश्वा॑ वा॒मा ज॑रि॒तारो॒ अस॑न्वन् । त्वे गाव॑: सु॒दुघा॒स्त्वे ह्यश्वा॒स्त्वं वसु॑ देवय॒ते वनि॑ष्ठः ॥
tvé ha yát pitáraś cin na indra víśvā vāmā́ jaritā́ro ásanvan | tvé gā́vaḥ sudúghās tvé hy áśvās tváṃ vásu devayaté vániṣṭhaḥ ||
In you indeed, O Indra, even our fathers found all desirable boons as singers. In you are the cows of rich yield and in you the horses of force; you are the wealth most to be won by the one who seeks the divine.
त्वे इति॑ । ह॒ । यत् । पि॒तरः॑ । चि॒त् । नः॒ । इ॒न्द्र॒ । विश्वा॑ । वा॒मा । ज॒रि॒तारः॑ । अस॑न्वन् । त्वे इति॑ । गावः॑ । सु॒ऽदुघाः॑ । त्वे इति॑ । हि । अश्वाः॑ । त्वम् । वसु॑ । दे॒व॒ऽय॒ते । वनि॑ष्ठः ॥त्वे इति । ह । यत् । पितरः । चित् । नः । इन्द्र । विश्वा । वामा । जरितारः । असन्वन् । त्वे इति । गावः । सुदुघाः । त्वे इति । हि । अश्वाः । त्वम् । वसु । देवयते । वनिष्ठः ॥tve iti | ha | yat | pitaraḥ | cit | naḥ | indra | viśvā | vāmā | jaritāraḥ | asanvan | tve iti | gāvaḥ | su-dughāḥ | tve iti | hi | aśvāḥ | tvam | vasu | deva-yate | vaniṣṭhaḥ