Sukta 7.18
अध श्रुतं कवषं वृद्धमप्स्वनु द्रुह्युं नि वृणग्वज्रबाहुः । वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्ननु त्वा ॥
अध॑ श्रु॒तं क॒वषं॑ वृ॒द्धम॒प्स्वनु॑ द्रु॒ह्युं नि वृ॑ण॒ग्वज्र॑बाहुः । वृ॒णा॒ना अत्र॑ स॒ख्याय॑ स॒ख्यं त्वा॒यन्तो॒ ये अम॑द॒न्ननु॑ त्वा ॥
ádha śrutáṃ kaváṣaṃ vṛ́ddham apsv ánu druhyúṃ ní vṛṇag vájrabāhuḥ | vṛṇānā́ atra sakhyā́ya sakhyáṃ tvāyánto yé ámadann ánu tvā ||
Then the thunder-armed chose out Druhyu in the waters, and cast down the famed old Kavaṣa. Here, choosing friendship for friendship, they came to you; those who delighted followed after you in the wake of your force.
अध॑ । श्रु॒तम् । क॒वष॑म् । वृ॒द्धम् । अ॒प्ऽसु । अनु॑ । द्रु॒ह्युम् । नि । वृ॒ण॒क् । वज्र॑ऽबाहुः । वृ॒णा॒नाः । अत्र॑ । स॒ख्याय॑ । स॒ख्यम् । त्वा॒ऽयन्तः॑ । ये । अम॑दन् । अनु॑ । त्वा॒ ॥अध । श्रुतम् । कवषम् । वृद्धम् । अप्सु । अनु । द्रुह्युम् । नि । वृणक् । वज्रबाहुः । वृणानाः । अत्र । सख्याय । सख्यम् । त्वायन्तः । ये । अमदन् । अनु । त्वा ॥adha | śrutam | kavaṣam | vṛddham | ap-su | anu | druhyum | ni | vṛṇak | vajra-bāhuḥ | vṛṇānāḥ | atra | sakhyāya | sakhyam | tvāyantaḥ | ye | amadan | anu | tvā