Sukta 7.18
एकं च यो विंशतिं च श्रवस्या वैकर्णयोर्जनान्राजा न्यस्तः । दस्मो न सद्मन्नि शिशाति बर्हिः शूरः सर्गमकृणोदिन्द्र एषाम् ॥
एकं॑ च॒ यो विं॑श॒तिं च॑ श्रव॒स्या वै॑क॒र्णयो॒र्जना॒न्राजा॒ न्यस्त॑: । द॒स्मो न सद्म॒न्नि शि॑शाति ब॒र्हिः शूर॒: सर्ग॑मकृणो॒दिन्द्र॑ एषाम् ॥
ékaṃ ca yó viṃśatíṃ ca śravasyā́ vaikarṇáyor jánān rājā́ nyàstaḥ | dasmó ná sádmann ní śiśāti bárhiḥ śūráḥ sárgam akṛṇod índra eṣām ||
He who set down the king—one and twenty—of the Vaikarṇa peoples, for the winning of fame. Like a wonder-worker in the home he lays the sacred seat in order; Indra the hero made for them the casting-forth, the decisive release.
एक॑म् । च॒ । यः । विं॒श॒तिम् । च॒ । श्र॒व॒स्या । वै॒क॒र्णयोः॑ । जना॑न् । राजा॑ । नि । अस्तः॑ । द॒स्मः । न । सद्म॑न् । नि । शि॒शा॒ति॒ । ब॒र्हिः । शूरः॑ । सर्ग॑म् । अ॒कृ॒णो॒त् । इन्द्रः॑ । ए॒षा॒म् ॥एकम् । च । यः । विंशतिम् । च । श्रवस्या । वैकर्णयोः । जनान् । राजा । नि । अस्तः । दस्मः । न । सद्मन् । नि । शिशाति । बर्हिः । शूरः । सर्गम् । अकृणोत् । इन्द्रः । एषाम् ॥ekam | ca | yaḥ | viṃśatim | ca | śravasyā | vaikarṇayoḥ | janān | rājā | ni | astaḥ | dasmaḥ | na | sadman | ni | śiśāti | barhiḥ | śūraḥ | sargam | akṛṇot | indraḥ | eṣām