Sukta 7.16
स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः । अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय ॥
स म॒न्द्रया॑ च जि॒ह्वया॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः । अग्ने॑ र॒यिं म॒घव॑द्भ्यो न॒ आ व॑ह ह॒व्यदा॑तिं च सूदय ॥
sá mandráyā ca jihváyā váhnir āsā́ vidúṣṭaraḥ | ágne rayíṃ maghávadbhyo na ā́ vaha havyádātiṃ ca sūdaya ||
With the gladdening tongue and with the mouth, the bearer of the offering, most knowing—O Agni, bring to us the plenitude for the bountiful ones, and set in motion the giving of the oblation (the right exchange with the gods).
सः । म॒न्द्रया॑ । च॒ । जि॒ह्वया॑ । वह्निः॑ । आ॒सा । वि॒दुःऽत॑रः । अग्ने॑ । र॒यिम् । म॒घव॑त्ऽभ्यः । नः॒ । आ । व॒ह॒ । ह॒व्यऽदा॑तिम् । च॒ । सू॒द॒य॒ ॥सः । मन्द्रया । च । जिह्वया । वह्निः । आसा । विदुःतरः । अग्ने । रयिम् । मघवत्भ्यः । नः । आ । वह । हव्यदातिम् । च । सूदय ॥saḥ | mandrayā | ca | jihvayā | vahniḥ | āsā | viduḥ-taraḥ | agne | rayim | maghavat-bhyaḥ | naḥ | ā | vaha | havya-dātim | ca | sūdaya