Sukta 7.16
ये राधांसि ददत्यश्व्या मघा कामेन श्रवसो महः । ताँ अंहसः पिपृहि पर्तृभिष्ट्वं शतं पूर्भिर्यविष्ठ्य ॥
ये राधां॑सि॒ दद॒त्यश्व्या॑ म॒घा कामे॑न॒ श्रव॑सो म॒हः । ताँ अंह॑सः पिपृहि प॒र्तृभि॒ष्ट्वं श॒तं पू॒र्भिर्य॑विष्ठ्य ॥
ye rā́dhāṃsi dadáty aśvyā́ maghā́ kā́mena śrávasaḥ maháḥ | tā́n áṃhasaḥ pipṛhi partṛ́bhiṣ ṭváṃ śatáṃ pū́rbhir yaviṣṭhya ||
Those who give the accomplishing graces and the swift powers of plenitude, moved by the desire for vast fame—protect them from distress; you, O youngest, guard them with protectors, with a hundred strongholds of light.
ये । राधां॑सि । दद॑ति । अश्व्या॑ । म॒घा । कामे॑न । श्रव॑सः । म॒हः । तान् । अंह॑सः । पि॒पृ॒हि॒ । प॒र्तृऽभिः । त्वम् । श॒तम् । पूः॒ऽभिः । य॒वि॒ष्ठ्य॒ ॥ये । राधांसि । ददति । अश्व्या । मघा । कामेन । श्रवसः । महः । तान् । अंहसः । पिपृहि । पर्तृभिः । त्वम् । शतम् । पूःभिः । यविष्ठ्य ॥ye | rādhāṃsi | dadati | aśvyā | maghā | kāmena | śravasaḥ | mahaḥ | tān | aṃhasaḥ | pipṛhi | partṛ-bhiḥ | tvam | śatam | pūḥ-bhiḥ | yaviṣṭhya