Sukta 7.16
त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः । यन्तारो ये मघवानो जनानामूर्वान्दयन्त गोनाम् ॥
त्वे अ॑ग्ने स्वाहुत प्रि॒यास॑: सन्तु सू॒रय॑: । य॒न्तारो॒ ये म॒घवा॑नो॒ जना॑नामू॒र्वान्दय॑न्त॒ गोना॑म् ॥
tve agne svāhuta priyā́saḥ santu sūŕayaḥ | yantā́ro ye maghávāno jánānām ūrvā́n dayanta gónām ||
In you, O Agni, rightly offered, may the beloved seers find their home—those leaders, bountiful among the peoples, who foster the wide fields of the cows: the open pastures of Light and Knowledge.
त्वे इति॑ । अ॒ग्ने॒ । सु॒ऽआ॒हु॒त॒ । प्रि॒यासः॑ । स॒न्तु॒ । सू॒रयः॑ । य॒न्तारः॑ । ये । म॒घऽवा॑नः । जना॑नाम् । ऊ॒र्वान् । दय॑न्त । गोना॑म् ॥त्वे इति । अग्ने । सुआहुत । प्रियासः । सन्तु । सूरयः । यन्तारः । ये । मघवानः । जनानाम् । ऊर्वान् । दयन्त । गोनाम् ॥tve iti | agne | su-āhuta | priyāsaḥ | santu | sūrayaḥ | yantāraḥ | ye | magha-vānaḥ | janānām | ūrvān | dayanta | gonām