Sukta 7.16
कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि । आ न ऋते शिशीहि विश्वमृत्विजं सुशंसो यश्च दक्षते ॥
कृ॒धि रत्नं॒ यज॑मानाय सुक्रतो॒ त्वं हि र॑त्न॒धा असि॑ । आ न॑ ऋ॒ते शि॑शीहि॒ विश्व॑मृ॒त्विजं॑ सु॒शंसो॒ यश्च॒ दक्ष॑ते ॥
kṛdhí rátnam yajámānāya sukratō tváṃ hí ratnadhā́ ási | ā́ na ṛté śiśīhi víśvam ṛtv́ijaṃ suśáṃso yáś ca dákṣate ||
Fashion the treasure for the one who offers, O strong-willed; for you are indeed the holder of the treasure. Without you, none can be made ready: sharpen for us the whole priestly working—he who is of good affirmation and who is capable in the act.
कृ॒धि । रत्न॑म् । यज॑मानाय । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । त्वम् । हि । र॒त्न॒ऽधाः । असि॑ । आ । नः॒ । ऋ॒ते । शि॒शी॒हि॒ । विश्व॑म् । ऋ॒त्विज॑म् । सु॒ऽशंसः॑ । यः । च॒ । दक्ष॑ते ॥कृधि । रत्नम् । यजमानाय । सुक्रतो इति सुक्रतो । त्वम् । हि । रत्नधाः । असि । आ । नः । ऋते । शिशीहि । विश्वम् । ऋत्विजम् । सुशंसः । यः । च । दक्षते ॥kṛdhi | ratnam | yajamānāya | sukrato itisu-krato | tvam | hi | ratna-dhāḥ | asi | ā | naḥ | ṛte | śiśīhi | viśvam | ṛtvijam | su-śaṃsaḥ | yaḥ | ca | dakṣate