Sukta 7.16
त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे । त्वं पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् ॥
त्वम॑ग्ने गृ॒हप॑ति॒स्त्वं होता॑ नो अध्व॒रे । त्वं पोता॑ विश्ववार॒ प्रचे॑ता॒ यक्षि॒ वेषि॑ च॒ वार्य॑म् ॥
tvám agne gṛhápatís tváṃ hótā no adhvaré | tváṃ pótā viśvavāra prácetā yákṣi véṣi ca vā́ryam ||
You, O Agni, are the lord of the house; you are our priest in the journey of sacrifice. You are the purifier, O all-desirable, wide-aware: sacrifice and also bring in the excellent riches (the best inner possessions).
त्वम् । अ॒ग्ने॒ । गृ॒हऽप॑तिः । त्वम् । होता॑ । नः॒ । अ॒ध्व॒रे । त्वम् । पोता॑ । वि॒श्व॒ऽवा॒र॒ । प्रऽचे॑ताः । यक्षि॑ । वेषि॑ । च॒ । वार्य॑म् ॥त्वम् । अग्ने । गृहपतिः । त्वम् । होता । नः । अध्वरे । त्वम् । पोता । विश्ववार । प्रचेताः । यक्षि । वेषि । च । वार्यम् ॥tvam | agne | gṛha-patiḥ | tvam | hotā | naḥ | adhvare | tvam | potā | viśva-vāra | pra-cetāḥ | yakṣi | veṣi | ca | vāryam