Sukta 7.16
तं त्वा दूतं कृण्महे यशस्तमं देवाँ आ वीतये वह । विश्वा सूनो सहसो मर्तभोजना रास्व तद्यत्त्वेमहे ॥
तं त्वा॑ दू॒तं कृ॑ण्महे य॒शस्त॑मं दे॒वाँ आ वी॒तये॑ वह । विश्वा॑ सूनो सहसो मर्त॒भोज॑ना॒ रास्व॒ तद्यत्त्वेम॑हे ॥
táṃ tvā dūtáṃ kṛṇmahe yaśástamaṃ devā́ṃ ā vītáye vaha | víśvā sūno sahaso martábhōjanā rāsva tád yát tvā ī́mahe ||
You we make our messenger, the most glorious: bring the gods for our enjoyment of the offering. O Son of Force, give us all the human nourishings—those forms of sustenance for the mortal being—which we seek from you.
तम् । त्वा॒ । दु॒तम् । कृ॒ण्म॒हे॒ । य॒शःऽत॑मम् । दे॒वान् । आ । वी॒तये॑ । व॒ह॒ । विश्वा॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । म॒र्त॒ऽभोज॑ना । रास्व॑ । तत् । यत् । त्वा॒ । ईम॑हे ॥तम् । त्वा । दुतम् । कृण्महे । यशःतमम् । देवान् । आ । वीतये । वह । विश्वा । सूनो इति । सहसः । मर्तभोजना । रास्व । तत् । यत् । त्वा । ईमहे ॥tam | tvā | dutam | kṛṇmahe | yaśaḥ-tamam | devān | ā | vītaye | vaha | viśvā | sūno iti | sahasaḥ | marta-bhojanā | rāsva | tat | yat | tvā | īmahe