Sukta 7.16
उदस्य शोचिरस्थादाजुह्वानस्य मीळ्हुषः । उद्धूमासो अरुषासो दिविस्पृशः समग्निमिन्धते नरः ॥
उद॑स्य शो॒चिर॑स्थादा॒जुह्वा॑नस्य मी॒ळ्हुष॑: । उद्धू॒मासो॑ अरु॒षासो॑ दिवि॒स्पृश॒: सम॒ग्निमि॑न्धते॒ नर॑: ॥
úd asya śócír asthād ājuhvā́nasya mīḷhúṣaḥ | úddhūmā́so aruṣā́so divispṛ́śaḥ sám agním indhate nárāḥ ||
Up rises his flame—of the one who is being invoked, the bounteous giver. Up rise his smokes, ruddy and heaven-touching; thus the human powers kindle Agni together, to build the ascent of consciousness.
उत् । अ॒स्य॒ । शो॒चिः । अ॒स्था॒त् । आ॒ऽजुह्वा॑नस्य । मी॒ळ्हुषः॑ । उत् । धू॒मासः॑ । अ॒रु॒षासः॑ । दि॒वि॒ऽस्पृशः॑ । सम् । अ॒ग्निम् । इ॒न्ध॒ते॒ । नरः॑ ॥उत् । अस्य । शोचिः । अस्थात् । आजुह्वानस्य । मीळ्हुषः । उत् । धूमासः । अरुषासः । दिविस्पृशः । सम् । अग्निम् । इन्धते । नरः ॥ut | asya | śociḥ | asthāt | ājuhvānasya | mīḷhuṣaḥ | ut | dhūmāsaḥ | aruṣāsaḥ | d ivi-spṛśaḥ | sam | agnim | indhate | naraḥ