Sukta 7.16
स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः । सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् ॥
स यो॑जते अरु॒षा वि॒श्वभो॑जसा॒ स दु॑द्रव॒त्स्वा॑हुतः । सु॒ब्रह्मा॑ य॒ज्ञः सु॒शमी॒ वसू॑नां दे॒वं राधो॒ जना॑नाम् ॥
sa yójate aruṣā viśvábhōjasā sá dudrávat svā́hutaḥ | subráhmā yajñáḥ suśámī vásūnāṃ deváṃ rā́dho jánānām ||
He who yokes the ruddy powers that enjoy all things, he—well offered—runs forward. The sacrifice becomes a noble-formulated force, a quieting harmony for the riches of the being, a divine plenitude for the peoples (the many movements in us).
सः । यो॒ज॒ते॒ । अ॒रु॒षा । वि॒श्वऽभो॑जसा । सः । दु॒द्र॒व॒त् । सुऽआ॑हुतः । सु॒ऽब्रह्मा॑ । य॒ज्ञः । सु॒ऽशमी॑ । वसू॑नाम् । दे॒वम् । राधः॑ । जना॑नाम् ॥सः । योजते । अरुषा । विश्वभोजसा । सः । दुद्रवत् । सुआहुतः । सुब्रह्मा । यज्ञः । सुशमी । वसूनाम् । देवम् । राधः । जनानाम् ॥saḥ | yojate | aruṣā | viśva-bhojasā | saḥ | dudravat | su-āhutaḥ | su-brahmā | yajñaḥ | su-śamī | vasūnām | devam | rādhaḥ | janānām