Sukta 7.16
देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचम् । उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥
दे॒वो वो॑ द्रविणो॒दाः पू॒र्णां वि॑वष्ट्या॒सिच॑म् । उद्वा॑ सि॒ञ्चध्व॒मुप॑ वा पृणध्व॒मादिद्वो॑ दे॒व ओ॑हते ॥
devó vo draviṇodā́ḥ pūrṇā́ṃ viváṣṭy āsícām | úd vā siñcadhvam úpa vā pṛṇadhvam ā́did vo devá ohate ||
The god, the giver of substance, has opened for you the full vessel. Pour it out upward, or fill it up more: then indeed the god bears you onward—he carries your becoming toward fullness.
दे॒वः । वः॒ । द्र॒वि॒णः॒ऽदाः । पू॒र्णाम् । वि॒व॒ष्टि॒ । आ॒ऽसिच॑म् । उत् । वा॒ । सि॒ञ्चध्व॑म् । उप॑ । वा॒ । पृ॒ण॒ध्व॒म् । आत् । इत् । वः॒ । दे॒वः । ओ॒ह॒ते॒ ॥देवः । वः । द्रविणःदाः । पूर्णाम् । विवष्टि । आसिचम् । उत् । वा । सिञ्चध्वम् । उप । वा । पृणध्वम् । आत् । इत् । वः । देवः । ओहते ॥devaḥ | vaḥ | draviṇaḥ-dāḥ | pūrṇām | vivaṣṭi | āsicam | ut | vā | siñcadhvam | upa | vā | pṛṇadhvam | āt | it | vaḥ | devaḥ | ohate