Sukta 7.16
तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत । दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥
तं होता॑रमध्व॒रस्य॒ प्रचे॑तसं॒ वह्निं॑ दे॒वा अ॑कृण्वत । दधा॑ति॒ रत्नं॑ विध॒ते सु॒वीर्य॑म॒ग्निर्जना॑य दा॒शुषे॑ ॥
táṃ hotā́ram adhvarásya prácetasaṃ váhniṃ devā́ akṛṇvata | dádhāti rátnaṃ vidhaté suvī́ryam agnír jánāya dāśúṣe ||
Him the gods fashioned as the illumined Hotar of the inner sacrifice, the carrier who bears the offering. Agni places the treasure—heroic plenitude of force—for the one who orders the rite, for the people who give themselves in offering.
तम् । होता॑रम् । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसम् । वह्नि॑म् । दे॒वाः । अ॒कृ॒ण्व॒त॒ । दधा॑ति । रत्न॑म् । वि॒ध॒ते । सु॒ऽवीर्य॑म् । अ॒ग्निः । जना॑य । दा॒शुषे॑ ॥तम् । होतारम् । अध्वरस्य । प्रचेतसम् । वह्निम् । देवाः । अकृण्वत । दधाति । रत्नम् । विधते । सुवीर्यम् । अग्निः । जनाय । दाशुषे ॥tam | hotāram | adhvarasya | pra-cetasam | vahnim | devāḥ | akṛṇvata | dadhāti | ratnam | vidhate | su-vīryam | agniḥ | janāya | dāśuṣe