Sukta 7.15
स नो वेदो अमात्यमग्नी रक्षतु विश्वतः । उतास्मान्पात्वंहसः ॥
स नो॒ वेदो॑ अ॒मात्य॑म॒ग्नी र॑क्षतु वि॒श्वत॑: । उ॒तास्मान्पा॒त्वंह॑सः ॥
sá no védo amā́tyam agnī́ rakṣatu viśvátas | utā́smān pā́tv áṃhasaḥ ||
May Agni, the knower, guard for us the faithful companion from every side; and may he also protect us from anguish and error.
सः । नः॒ । वेदः॑ । अ॒मात्य॑म् । अ॒ग्निः । र॒क्ष॒तु॒ । वि॒श्वतः॑ । उ॒त । अ॒स्मान् । पा॒तु॒ । अंह॑सः ॥सः । नः । वेदः । अमात्यम् । अग्निः । रक्षतु । विश्वतः । उत । अस्मान् । पातु । अंहसः ॥saḥ | naḥ | vedaḥ | amātyam | agniḥ | rakṣatu | viśvataḥ | uta | asmān | pātu | aṃhasaḥ