Sukta 7.15
नवं नु स्तोममग्नये दिवः श्येनाय जीजनम् । वस्वः कुविद्वनाति नः ॥
नवं॒ नु स्तोम॑म॒ग्नये॑ दि॒वः श्ये॒नाय॑ जीजनम् । वस्व॑: कु॒विद्व॒नाति॑ नः ॥
návaṃ nú stómaṃ agnáye diváḥ śyenā́ya jī́janam | vásvaḥ kúvid vanā́ti naḥ ||
A new hymn we have fashioned for Agni, the sky’s falcon; will the radiant one of riches perhaps win for us the good plenitudes of being?
नव॑म् । नु । स्तोम॑म् । अ॒ग्नये॑ । दि॒वः । श्ये॒नाय॑ । जी॒ज॒न॒म् । वस्वः॑ । कु॒वित् । व॒नाति॑ । नः॒ ॥नवम् । नु । स्तोमम् । अग्नये । दिवः । श्येनाय । जीजनम् । वस्वः । कुवित् । वनाति । नः ॥navam | nu | stomam | agnaye | divaḥ | śyenāya | jījanam | vasvaḥ | kuvit | vanāti | naḥ