Sukta 7.13
त्वमग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः । त्वं देवाँ अभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा ॥
त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी अपृणा॒ जाय॑मानः । त्वं दे॒वाँ अ॒भिश॑स्तेरमुञ्चो॒ वैश्वा॑नर जातवेदो महि॒त्वा ॥
tvám agne śocíṣā śóśucāna ā́ ródasī apṛṇā jā́yamānaḥ | tváṃ devā́n abhí-śaster amuñco vaiśvānara jā́ta-vedo mahitvā́ ||
O Agni, blazing with your flame, when you are born you fill the two worlds. You release the gods from hostile oppression; O Vaiśvānara, O Jātavedas, by your greatness.
त्वम् । अ॒ग्ने॒ । शो॒चिषा॑ । शोशु॑चानः । आ । रोद॑सी॒ इति॑ । अ॒पृ॒णाः॒ । जाय॑मानः । त्वम् । दे॒वान् । अ॒भिऽश॑स्तेः । अ॒मु॒ञ्चः॒ । वैश्वा॑नर । जा॒त॒ऽवे॒दः॒ । म॒हि॒ऽत्वा ॥त्वम् । अग्ने । शोचिषा । शोशुचानः । आ । रोदसी इति । अपृणाः । जायमानः । त्वम् । देवान् । अभिशस्तेः । अमुञ्चः । वैश्वानर । जातवेदः । महित्वा ॥tvam | agne | śociṣā | śośucānaḥ | ā | rodasī iti | apṛṇāḥ | jāyamānaḥ | tvam | devān | abhi-śasteḥ | amuñcaḥ | vaiśvānara | jāta-vedaḥ | mahi-tvā