Sukta 7.13
जातो यदग्ने भुवना व्यख्यः पशून्न गोपा इर्यः परिज्मा । वैश्वानर ब्रह्मणे विन्द गातुं यूयं पात स्वस्तिभिः सदा नः ॥
जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्य॑: प॒शून्न गो॒पा इर्य॒: परि॑ज्मा । वैश्वा॑नर॒ ब्रह्म॑णे विन्द गा॒तुं यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
jā́to yád agne bhúvanā vyàkhyáḥ paśū́n na gopā́ iryàḥ parí-jmā́ | vaiśvā́nara bráhmaṇe vinda gātúṃ yūyáṃ pāta svastí-bhiḥ sadā́ naḥ ||
O Agni, when thou wert born and didst spread thy gaze over the worlds, like a herdsman guarding the rays (of light/knowledge), moving around and through all. O Vaiśvānara, discover for the soul’s aspiring Word (brahman) the path of passage; and may you (divine powers) guard us always with states of well-being.
जा॒तः । यत् । अ॒ग्ने॒ । भुव॑ना । वि । अख्यः॑ । प॒शून् । न । गो॒पाः । इर्यः॑ । परि॑ऽज्मा । वैश्वा॑नर । ब्रह्म॑णे । वि॒न्द॒ । गा॒तुम् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥जातः । यत् । अग्ने । भुवना । वि । अख्यः । पशून् । न । गोपाः । इर्यः । परिज्मा । वैश्वानर । ब्रह्मणे । विन्द । गातुम् । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥jātaḥ | yat | agne | bhuvanā | vi | akhyaḥ | paśūn | na | gopāḥ | iryaḥ | pari-jmā | vaiśvānara | brahmaṇe | vinda | gātum | yūyam | pāta | svasti-bhiḥ | sadā | naḥ