Sukta 7.12
स मह्ना विश्वा दुरितानि साह्वानग्निः ष्टवे दम आ जातवेदाः । स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥
स म॒ह्ना विश्वा॑ दुरि॒तानि॑ सा॒ह्वान॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे॑दाः । स नो॑ रक्षिषद्दुरि॒ताद॑व॒द्याद॒स्मान्गृ॑ण॒त उ॒त नो॑ म॒घोन॑: ॥
sá mahnā́ víśvā duritā́ni sā́hvān agníḥ stave dáma ā́ jā́ta-vedāḥ | sá no rakṣiṣad duritā́d avadyā́d asmā́n gṛṇatá utá no maghónaḥ ||
Mighty in greatness, overcoming all difficulties, Agni is praised in the home as Jātavedas. May he guard us from distress and from fault, us who sing—and also our giver of plenitude.
सः । म॒ह्ना । विश्वा॑ । दुः॒ऽइ॒तानि॑ । सा॒ह्वान् । अ॒ग्निः । स्त॒वे॒ । दमे॑ । आ । जा॒तऽवे॑दाः । सः । नः॒ । र॒क्षि॒ष॒त् । दुः॒ऽइ॒तात् । अ॒व॒द्या॒त् । अ॒स्मान् । गृ॒ण॒तः । उ॒त । नः॒ । म॒घोनः॑ ॥सः । मह्ना । विश्वा । दुःइतानि । साह्वान् । अग्निः । स्तवे । दमे । आ । जातवेदाः । सः । नः । रक्षिषत् । दुःइतात् । अवद्यात् । अस्मान् । गृणतः । उत । नः । मघोनः ॥saḥ | mahnā | viśvā | duḥ-itāni | sāhvān | agniḥ | stave | dame | ā | jāta-vedāḥ | saḥ | naḥ | rakṣiṣat | duḥ-itāt | avadyāt | asmān | gṛṇataḥ | uta | naḥ | maghonaḥ