Sukta 7.12
अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥
अग॑न्म म॒हा नम॑सा॒ यवि॑ष्ठं॒ यो दी॒दाय॒ समि॑द्ध॒: स्वे दु॑रो॒णे । चि॒त्रभा॑नुं॒ रोद॑सी अ॒न्तरु॒र्वी स्वा॑हुतं वि॒श्वत॑: प्र॒त्यञ्च॑म् ॥
áganma mahā́ námasā yáviṣṭhaṃ yó dīdā́ya samíddhaḥ své duróṇe | citrá-bhānuṃ ródasī antár urvī́ svā́hutaṃ viśvátah prátyañcam ||
We have come with a great surrender to the youngest Flame, who shines when kindled in his own home. His many-coloured radiance fills the two worlds within their wideness; well-offered, he turns from every side towards us.
अग॑न्म । म॒हा । नम॑सा । यवि॑ष्ठम् । यः । दी॒दाय॑ । सम्ऽइ॑द्धः । स्वे । दु॒रो॒णे । चि॒त्रऽभा॑नुम् । रोद॑सी॒ इति॑ । अ॒न्तः । उ॒र्वी इति॑ । सुऽआ॑हुतम् । प्र॒त्यञ्च॑म् ॥अगन्म । महा । नमसा । यविष्ठम् । यः । दीदाय । सम्इद्धः । स्वे । दुरोणे । चित्रभानुम् । रोदसी इति । अन्तः । उर्वी इति । सुआहुतम् । प्रत्यञ्चम् ॥aganma | mahā | namasā | yaviṣṭham | yaḥ | dīdāya | sam-iddhaḥ | sve | duroṇe | ci tra-bhānum | rodasī iti | antaḥ | urvī iti | su-āhutam | pratyañcam