Sukta 7.12
त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः । त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥
त्वं वरु॑ण उ॒त मि॒त्रो अ॑ग्ने॒ त्वां व॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः । त्वे वसु॑ सुषण॒नानि॑ सन्तु यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
tváṃ váruṇa utá mitró agne tvā́ṃ vardhanti matíbhir váṣiṣṭhāḥ | tvé vásu suṣaṇanā́ni santu yūyáṃ pāta svastíbhiḥ sádā naḥ ||
You are Varuṇa and you are Mitra, O Agni; the Vasiṣṭhas increase you with their thoughts. In you may there be the good treasures and happy attainments; and you, protect us always with your well-beings.
त्वम् । वरु॑णः । उ॒त । मि॒त्रः । अ॒ग्ने॒ । त्वाम् । व॒र्ध॒न्ति॒ । म॒तिऽभिः॑ । वसि॑ष्ठाः । त्वे इति॑ । वसु॑ । सु॒ऽस॒ण॒नानि॑ । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥त्वम् । वरुणः । उत । मित्रः । अग्ने । त्वाम् । वर्धन्ति । मतिभिः । वसिष्ठाः । त्वे इति । वसु । सुसणनानि । सन्तु । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥tvam | varuṇaḥ | uta | mitraḥ | agne | tvām | vardhanti | mati-bhiḥ | vasiṣṭhāḥ | tve iti | vasu | su-saṇanāni | santu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ