Sukta 7.104
ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः । अहये वा तान्प्रददातु सोम आ वा दधातु निॠतेरुपस्थे ॥
ये पा॑कशं॒सं वि॒हर॑न्त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षय॑न्ति स्व॒धाभि॑: । अह॑ये वा॒ तान्प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु॒ निॠ॑तेरु॒पस्थे॑ ॥
yé pākaśaṃsáṃ viháranta évair yé vā bhadráṃ dū́ṣayanti svadhā́bhiḥ | áhaye vā tā́n pradádātu sóma ā́ vā dadhātu nírṛter upásthe ||
Those who sport with petty evil-speech, and those who stain what is good by their self-willed impulses—may Soma hand them over to the serpent-force, or place them in the lap of Dissolution, where their perversion is undone.
ये । पा॒क॒ऽशं॒सम् । वि॒ऽहर॑न्ते । एवैः॑ । ये । वा॒ । भ॒द्रम् । दू॒षय॑न्ति । स्व॒धाऽभिः॑ । अह॑ये । वा॒ । तान् । प्र॒ऽददा॑तु । सोमः॑ । आ । वा॒ । द॒धा॒तु॒ । निःऽऋ॑तेः । उ॒पऽस्थे॑ ॥ये । पाकशंसम् । विहरन्ते । एवैः । ये । वा । भद्रम् । दूषयन्ति । स्वधाभिः । अहये । वा । तान् । प्रददातु । सोमः । आ । वा । दधातु । निःऋतेः । उपस्थे ॥ye | pāka-śaṃsam | vi-harante | evaiḥ | ye | vā | bhadram | dūṣayanti | svadhābh iḥ | ahaye | vā | tān | pra-dadātu | somaḥ | ā | vā | dadhātu | niḥ-ṛteḥ | upa-sthe