Sukta 7.104
यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम् । रिपुः स्तेनः स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥
यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ यो अश्वा॑नां॒ यो गवां॒ यस्त॒नूना॑म् । रि॒पुः स्ते॒नः स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒३॒॑ तना॑ च ॥
yó no rásaṃ dípsati pitvó agne yó aśvā́nāṃ yó gavā́ṃ yás tanū́nām | ripúḥ stenáḥ steyakṛ́d dábhram etu ní ṣá hīyatāṃ tanvā́ tanā́ ca ||
Whoever seeks to steal our essence, O Agni—whether of our drink of life, of our powers of progress, of our rays of knowledge, or of our embodied being—let that foe, that thief, that maker of theft, go to a smallness and dwindling; let him be diminished in body and in lineage.
यः । नः॒ । रस॑म् । दिप्स॑ति । पि॒त्वः । अ॒ग्ने॒ । यः । अश्वा॑नाम् । यः । गवा॑म् । यः । त॒नूना॑म् । रि॒पुः । स्ते॒नः । स्ते॒य॒ऽकृत् । द॒भ्रम् । ए॒तु॒ । नि । सः । ही॒य॒ता॒म् । त॒न्वा॑ । तना॑ । च॒ ॥यः । नः । रसम् । दिप्सति । पित्वः । अग्ने । यः । अश्वानाम् । यः । गवाम् । यः । तनूनाम् । रिपुः । स्तेनः । स्तेयकृत् । दभ्रम् । एतु । नि । सः । हीयताम् । तन्वा । तना । च ॥yaḥ | naḥ | rasam | dipsati | pitvaḥ | agne | yaḥ | aśvānām | yaḥ | gavām | yaḥ | tanūnām | ripuḥ | stenaḥ | steya-kṛt | dabhram | etu | ni | saḥ | hīyatām | tanvā | tanā | ca