Sukta 7.104
यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः । आप इव काशिना संगृभीता असन्नस्त्वासत इन्द्र वक्ता ॥
यो मा॒ पाके॑न॒ मन॑सा॒ चर॑न्तमभि॒चष्टे॒ अनृ॑तेभि॒र्वचो॑भिः । आप॑ इव का॒शिना॒ संगृ॑भीता॒ अस॑न्न॒स्त्वास॑त इन्द्र व॒क्ता ॥
yó mā pā́kena mánasā cárantam abhicaṣṭé anṛ́tebhir vácobhiḥ | ā́pa iva kāśínā sáṃgṛbhītā asánn astv āsata índra vaktā́ ||
Whoever with a petty mind watches me and speaks against me with words of falsehood—may he become as non-being; like waters seized by a shining net, may his utterance be caught and rendered void, O Indra.
यः । मा॒ । पाके॑न । मन॑सा । चर॑न्तम् । अ॒भि॒ऽचष्टे॑ । अनृ॑तेभिः । वचः॑ऽभिः । आपः॑ऽइव । का॒शिना॑ । सम्ऽगृ॑भीताः । अस॑न् । अ॒स्तु॒ । अस॑तः । इ॒न्द्र॒ । व॒क्ता ॥यः । मा । पाकेन । मनसा । चरन्तम् । अभिचष्टे । अनृतेभिः । वचःभिः । आपःइव । काशिना । सम्गृभीताः । असन् । अस्तु । असतः । इन्द्र । वक्ता ॥yaḥ | mā | pākena | manasā | carantam | abhi-caṣṭe | anṛtebhiḥ | vacaḥ-bhiḥ | āpaḥ-iva | kāśinā | sam-gṛbhītāḥ | asan | astu | asataḥ | indra | vaktā