Sukta 7.104
प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः । इन्द्रासोमा दुष्कृते मा सुगं भूद्यो नः कदा चिदभिदासति द्रुहा ॥
प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भङ्गु॒राव॑तः । इन्द्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो न॑: क॒दा चि॑दभि॒दास॑ति द्रु॒हा ॥
práti smarethāṁ tujā́yadbhir évair hatáṁ druhó rákṣaso bhaṅgurā́vataḥ | índrāsomā duṣkṛ́te mā́ sugáṁ bhūd yó naḥ kadā́ cid abhídāsati druhā́ ||
Remember and answer with your conquering impulses; strike down the deceiver, the Rakṣas that comes with shattering cries. O Indra and Soma, let there be no easy path for the doer of wrong—whoever at any time assails us with treachery.
प्रति॑ । स्म॒रे॒था॒म् । तु॒जय॑त्ऽभिः । एवैः॑ । ह॒तम् । द्रु॒हः । र॒क्षसः॑ । भ॒ङ्गु॒रऽव॑तः । इन्द्रा॑सोमा । दुः॒ऽकृते॑ । मा । सु॒ऽगम् । भू॒त् । यः । नः॒ । क॒दा । चि॒त् । अ॒भि॒ऽदास॑ति । द्रु॒हा ॥प्रति । स्मरेथाम् । तुजयत्भिः । एवैः । हतम् । द्रुहः । रक्षसः । भङ्गुरवतः । इन्द्रासोमा । दुःकृते । मा । सुगम् । भूत् । यः । नः । कदा । चित् । अभिदासति । द्रुहा ॥prati | smarethām | tujayat-bhiḥ | evaiḥ | hatam | druhaḥ | rakṣasaḥ | bhaṅgura-vataḥ | indrāsomā | duḥ-kṛte | mā | su-gam | bhūt | yaḥ | naḥ | kadā | cit | abhi-dāsati | druhā