Sukta 7.104
इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना । यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपतीव जिन्वतम् ॥
इन्द्रा॑सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे॑व वा॒जिना॑ । यां वां॒ होत्रां॑ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा॑णि नृ॒पती॑व जिन्वतम् ॥
índrāsomā pári vāṁ bhūtu viśvátá iyáṁ matíḥ kakṣyā́śveva vā́jinā | yā́ṁ vāṁ hótrāṁ parihinómi medháyemā́ brahmā́ṇi nṛpátīva jinvatam ||
O Indra and Soma, may this thought move around you from every side like a girdle-horse rich in force. This offering-call I place around you with awakened intelligence; nourish these sacred formulations, as two kings foster their people.
इन्द्रा॑सोमा । परि॑ । वा॒म् । भू॒तु॒ । वि॒श्वतः॑ । इ॒यम् । म॒तिः । क॒क्ष्या॑ । अश्वा॑ऽइव । वा॒जिना॑ । याम् । वा॒म् । होत्रा॑म् । प॒रि॒ऽहि॒नोमि॑ । मे॒धया॑ । इ॒मा । ब्रह्मा॑णि । नृ॒पती॑इ॒वेति॑ नृ॒पती॑ऽइव । जि॒न्व॒त॒म् ॥इन्द्रासोमा । परि । वाम् । भूतु । विश्वतः । इयम् । मतिः । कक्ष्या । अश्वाइव । वाजिना । याम् । वाम् । होत्राम् । परिहिनोमि । मेधया । इमा । ब्रह्माणि । नृपतीइवेति नृपतीइव । जिन्वतम् ॥indrāsomā | pari | vām | bhūtu | viśvataḥ | iyam | matiḥ | kakṣyā | aśvāiva | vāji nā | yām | vām | hotrām | pari-hinomi | medhayā | imā | brahmāṇi | nṛpatīivetinṛpatī-iva | jinvatam