Sukta 7.104
इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः । तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥
इन्द्रा॑सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि॑र्यु॒वमश्म॑हन्मभिः । तपु॑र्वधेभिर॒जरे॑भिर॒त्रिणो॒ नि पर्शा॑ने विध्यतं॒ यन्तु॑ निस्व॒रम् ॥
índrāsomā vartáyatam divás pári agnitaptébhir yuvám aśmahanmábhiḥ | tápurvadhebhir ajárebhir atríṇo ní parśā́ne vidhyatam yántu nisvarám ||
O Indra and Soma, turn your power around from heaven with stones made hot by Fire, with rock-smiting forces. With unaging burning strokes pierce down the devouring ones; let them go into the soundless realm, where no true word can arise.
इन्द्रा॑सोमा । व॒र्तय॑तम् । दि॒वः । परि॑ । अ॒ग्नि॒ऽत॒प्तेभिः॑ । यु॒वम् । अश्म॑हन्मऽभिः । तपुः॑ऽवधेभिः । अ॒जरे॑भिः । अ॒त्रिणः॑ । नि । पर्शा॑ने । वि॒ध्य॒त॒म् । यन्तु॑ । नि॒ऽस्व॒रम् ॥इन्द्रासोमा । वर्तयतम् । दिवः । परि । अग्नितप्तेभिः । युवम् । अश्महन्मभिः । तपुःवधेभिः । अजरेभिः । अत्रिणः । नि । पर्शाने । विध्यतम् । यन्तु । निस्वरम् ॥indrāsomā | vartayatam | divaḥ | pari | agni-taptebhiḥ | yuvam | aśmahanma-bhiḥ | tapuḥ-vadhebhiḥ | ajarebhiḥ | atriṇaḥ | ni | parśāne | vidhyatam | yantu | ni--svaram