Sukta 7.104
इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् । उत्तक्षतं स्वर्यं पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥
इन्द्रा॑सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशं॑साय॒ तर्ह॑णम् । उत्त॑क्षतं स्व॒र्यं१॒॑ पर्व॑तेभ्यो॒ येन॒ रक्षो॑ वावृधा॒नं नि॒जूर्व॑थः ॥
índrāsomā vartáyatam divó vadháṁ sáṃ pṛthivyā́ aghaśaṃsā́ya tárhaṇam | úttakṣatam svaryàṃ párvatebhyo yéna rákṣo vāvṛdhānáṃ nijū́rvathaḥ ||
O Indra and Soma, turn down from heaven the smiting force, and join it with the earth as a crushing pressure upon the evil-voiced one. Hew out from the mountains a sun-winning path by which you wear down the growing Rakṣas within us.
इन्द्रा॑सोमा । व॒र्तय॑तम् । दि॒वः । व॒धम् । सम् । पृ॒थि॒व्याः । अ॒घऽशं॑साय । तर्ह॑णम् । उत् । त॒क्ष॒त॒म् । स्व॒र्य॑म् । पर्व॑तेभ्यः । येन॑ । रक्षः॑ । व॒वृ॒धा॒नम् । नि॒ऽजूर्व॑थः ॥इन्द्रासोमा । वर्तयतम् । दिवः । वधम् । सम् । पृथिव्याः । अघशंसाय । तर्हणम् । उत् । तक्षतम् । स्वर्यम् । पर्वतेभ्यः । येन । रक्षः । ववृधानम् । निजूर्वथः ॥indrāsomā | vartayatam | divaḥ | vadham | sam | pṛthivyāḥ | agha-śaṃsāya | taharṇam | ut | takṣatam | svaryam | parvatebhyaḥ | yena | rakṣaḥ | vavṛdhānam | ni-jūrvathaḥ