Sukta 7.104
इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम् । यथा नातः पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥
इन्द्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम् । यथा॒ नात॒: पुन॒रेक॑श्च॒नोदय॒त्तद्वा॑मस्तु॒ सह॑से मन्यु॒मच्छव॑: ॥
índrāsomā duṣkṛ́to vavrè antár anārambhaṇé támási prá vidhyatam | yáthā nā́taḥ púnar ékaś canódáyat tád vām astu sáhase manyúmacchávaḥ ||
O Indra and Soma, pierce forth the doer of wrong who has wrapped himself within the ungraspable darkness. So may it be for your might—that from there not even one may rise again; let your wrathful strength accomplish it.
इन्द्रा॑सोमा । दुः॒ऽकृतः॑ । व॒व्रे । अ॒न्तः । अ॒ना॒र॒म्भ॒णे । तम॑सि । प्र । वि॒ध्य॒त॒म् । यथा॑ । न । अतः॑ । पुनः॑ । एकः॑ । च॒न । उ॒त्ऽअय॑त् । तत् । वा॒म् । अ॒स्तु॒ । सह॑से । म॒न्यु॒ऽमत् । शवः॑ ॥इन्द्रासोमा । दुःकृतः । वव्रे । अन्तः । अनारम्भणे । तमसि । प्र । विध्यतम् । यथा । न । अतः । पुनः । एकः । चन । उत्अयत् । तत् । वाम् । अस्तु । सहसे । मन्युमत् । शवः ॥indrāsomā | duḥ-kṛtaḥ | vavre | antaḥ | anārambhaṇe | tamasi | pra | vidhyatam | yathā | na | ataḥ | punaḥ | ekaḥ | cana | ut-ayat | tat | vām | astu | sahase | manyu-mat | śavaḥ