Sukta 7.104
इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् । विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त्सूर्यमुच्चरन्तम् ॥
इन्द्र॑ ज॒हि पुमां॑सं यातु॒धान॑मु॒त स्त्रियं॑ मा॒यया॒ शाश॑दानाम् । विग्री॑वासो॒ मूर॑देवा ऋदन्तु॒ मा ते दृ॑श॒न्त्सूर्य॑मु॒च्चर॑न्तम् ॥
índra jahí pumā́ṃsaṃ yātudhā́nam utá stríyaṃ māyáyā śā́śadānām | ví-grīvāso mūrā́-devā ṛ́dantu mā́ te dṛ́śan sū́ryam ut-cárantam ||
O Indra, strike down the male and the female powers of the yātudhāna—those who by illusion keep devouring the right movement. Let the distorted-necked, false-divinities wail in defeat; let them not behold your Sun as it rises in the consciousness.
इन्द्र॑ । ज॒हि । पुमां॑सम् । या॒तु॒ऽधान॑म् । उ॒त । स्त्रिय॑म् । मा॒यया॑ । शाश॑दानाम् । विऽग्री॑वासः । मूर॑ऽदेवाः । ऋ॒द॒न्तु॒ । मा । ते । दृ॒श॒न् । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ॥इन्द्र । जहि । पुमांसम् । यातुधानम् । उत । स्त्रियम् । मायया । शाशदानाम् । विग्रीवासः । मूरदेवाः । ऋदन्तु । मा । ते । दृशन् । सूर्यम् । उत्चरन्तम् ॥indra | jahi | pumāṃsam | yātu-dhānam | uta | striyam | māyayā | śāśadānām | vi-grīvāsaḥ | mūra-devāḥ | ṛdantu | mā | te | dṛśan | sūryam | ut-carantam