Sukta 7.104
मा नो रक्षो अभि नड्यातुमावतामपोच्छतु मिथुना या किमीदिना । पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥
मा नो॒ रक्षो॑ अ॒भि न॑ड्यातु॒माव॑ता॒मपो॑च्छतु मिथु॒ना या कि॑मी॒दिना॑ । पृ॒थि॒वी न॒: पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥
mā́ no rákṣo abhí naḍ yātú-māvatām ápo ucchatu mithunā́ yā́ kimī́dinā | pṛthivī́ naḥ pārthivā́t pātv áṃhasaḥ antárikṣaṃ divyā́t pātv asmā́n ||
Let not the harmful powers press upon us; let the paired deceivers, driven by the kimīdin-force, be cast out and dispersed. May Earth guard us from the terrestrial peril, and the Midworld guard us from the celestial assault; may these worlds protect us from distress.
मा । नः॒ । रक्षः॑ । अ॒भि । न॒ट् । या॒तु॒ऽमाव॑ताम् । अप॑ । उ॒च्छ॒तु॒ । मि॒थु॒ना । या । कि॒मी॒दिना॑ । पृ॒थि॒वी । नः॒ । पार्थि॑वात् । पा॒तु॒ । अंह॑सः । अ॒न्तरि॑क्षम् । दि॒व्यात् । पा॒तु॒ । अ॒स्मान् ॥मा । नः । रक्षः । अभि । नट् । यातुमावताम् । अप । उच्छतु । मिथुना । या । किमीदिना । पृथिवी । नः । पार्थिवात् । पातु । अंहसः । अन्तरिक्षम् । दिव्यात् । पातु । अस्मान् ॥mā | naḥ | rakṣaḥ | abhi | naṭ | yātu-māvatām | apa | ucchatu | mithunā | yā | kimīdinā | pṛthivī | naḥ | pārthivāt | pātu | aṃhasaḥ | antarikṣam | divyāt | pātu | asmān