Sukta 7.104
प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् । रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥
प्रति॑ चक्ष्व॒ वि च॒क्ष्वेन्द्र॑श्च सोम जागृतम् । रक्षो॑भ्यो व॒धम॑स्यतम॒शनिं॑ यातु॒मद्भ्य॑: ॥
práti cakṣva ví cakṣv índraś ca soma jāgṛtám | rákṣo-bhyo vadhám asyatam aśánim yātumád-bhyaḥ ||
Look upon us, look widely: awaken, O Indra and Soma. Hurl the slaying force and the thunderbolt against the hostile powers, against those possessed of the yātu-movement, so that the path of the offering becomes clear.
प्रति॑ । च॒क्ष्व॒ । वि । च॒क्ष्व॒ । इन्द्रः॑ । च॒ । सो॒म॒ । जा॒गृ॒त॒म् । रक्षः॑ऽभ्यः । व॒धम् । अ॒स्य॒त॒म् । अ॒शनि॑म् । या॒तु॒मत्ऽभ्यः॑ ॥प्रति । चक्ष्व । वि । चक्ष्व । इन्द्रः । च । सोम । जागृतम् । रक्षःभ्यः । वधम् । अस्यतम् । अशनिम् । यातुमत्भ्यः ॥prati | cakṣva | vi | cakṣva | indraḥ | ca | soma | jāgṛtam | rakṣaḥ-bhyaḥ | vadham | asyatam | aśanim | yātumat-bhyaḥ