Sukta 7.104
इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम् । अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्त्सत एति रक्षसः ॥
इन्द्रो॑ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी॑नाम॒भ्या॒३॒॑विवा॑सताम् । अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे॑व भि॒न्दन्त्स॒त ए॑ति र॒क्षस॑: ॥
índro yātūnā́m abhavat parāśaró havírmáthīnām abhyā́vivāsatām | abhī́du śakráḥ paraśúr yáthā vánam pā́treva bhíndan satá eti rákṣasaḥ ||
Indra has become the driving-away of the yātus, against those who churn the offering into disorder. The Shakra, like an axe against a forest, like one breaking a vessel, comes upon the rakṣas, splitting what is set against the truth.
इन्द्रः॑ । या॒तू॒नाम् । अ॒भ॒व॒त् । प॒रा॒ऽश॒रः । ह॒विः॒ऽमथी॑नाम् । अ॒भि । आ॒ऽविवा॑सताम् । अ॒भि । इत् । ऊँ॒ इति॑ । श॒क्रः । प॒र॒शुः । यथा॑ । वन॑म् । पात्रा॑ऽइव । भि॒न्दन् । स॒तः । ए॒ति॒ । र॒क्षसः॑ ॥इन्द्रः । यातूनाम् । अभवत् । पराशरः । हविःमथीनाम् । अभि । आविवासताम् । अभि । इत् । ऊँ इति । शक्रः । परशुः । यथा । वनम् । पात्राइव । भिन्दन् । सतः । एति । रक्षसः ॥indraḥ | yātūnām | abhavat | parāśaraḥ | haviḥ-mathīnām | abhi | āvivāsatām | abhi | it | oṃ iti | śakraḥ | paraśuḥ | yathā | vanam | pātrāiva | bhindan | sataḥ | eti | rakṣasaḥ