Sukta 7.104
एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम् । शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजदशनिं यातुमद्भ्यः ॥
ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया॑तव॒ इन्द्रं॑ दिप्सन्ति दि॒प्सवोऽदा॑भ्यम् । शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्य॑: ॥
etá u tyé patayanti śváyātava índraṃ dípsanti dípsavo ’dā́bhyam | śíśīte śakráḥ píśunebhyo vadháṃ nūnáṃ sṛ́jad áśaniṃ yātumádbhyaḥ ||
These indeed fly about—dog-like wanderers—desiring to seize Indra the invincible. The Shakra sharpens the blow for the malicious; now he releases the thunderbolt upon the yātu-possessed.
ए॒ते । ऊँ॒ इति॑ । त्ये । प॒त॒य॒न्ति॒ । श्वऽया॑तवः । इन्द्र॑म् । दि॒प्स॒न्ति॒ । दि॒प्सवः॑ । अदा॑भ्यम् । शिशी॑ते । श॒क्रः । पिशु॑नेभ्यः । व॒धम् । नू॒नम् । सृ॒ज॒त् । अ॒शनि॑म् । या॒तु॒मत्ऽभ्यः॑ ॥एते । ऊँ इति । त्ये । पतयन्ति । श्वयातवः । इन्द्रम् । दिप्सन्ति । दिप्सवः । अदाभ्यम् । शिशीते । शक्रः । पिशुनेभ्यः । वधम् । नूनम् । सृजत् । अशनिम् । यातुमत्भ्यः ॥ete | oṃ iti | tye | patayanti | śva-yātavaḥ | indram | dipsanti | dipsavaḥ | adābhyam | śiśīte | śakraḥ | piśunebhyaḥ | vadham | nūnam | sṛjat | aśanim | yātumat-bhyaḥ