Sukta 7.104
वि तिष्ठध्वं मरुतो विक्ष्विच्छत गृभायत रक्षसः सं पिनष्टन । वयो ये भूत्वी पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥
वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि१॒॑च्छत॑ गृभा॒यत॑ र॒क्षस॒: सं पि॑नष्टन । वयो॒ ये भू॒त्वी प॒तय॑न्ति न॒क्तभि॒र्ये वा॒ रिपो॑ दधि॒रे दे॒वे अ॑ध्व॒रे ॥
ví tiṣṭhadhvaṃ maruto víkṣv ícchata gṛbhā́yata rákṣasaḥ sáṃ pinaṣṭana | váyo yé bhūtvī́ patáyanti naktábhīr yé vā rípo dadhiré devé adhvaré ||
Stand apart, O Maruts; search through the settlements. Seize the rakṣas and crush them together—those who become birds and fly by nights, or those who have set hostility within the divine sacrifice.
वि । ति॒ष्ठ॒ध्व॒म् । म॒रु॒तः॒ । वि॒क्षु । इ॒च्छत॑ । गृ॒भा॒यत॑ । र॒क्षसः॑ । सम् । पि॒न॒ष्ट॒न॒ । वयः॑ । ये । भू॒त्वी । प॒तय॑न्ति । न॒क्तऽभिः॑ । ये । वा॒ । रिपः॑ । द॒धि॒रे । दे॒वे । अ॒ध्व॒रे ॥वि । तिष्ठध्वम् । मरुतः । विक्षु । इच्छत । गृभायत । रक्षसः । सम् । पिनष्टन । वयः । ये । भूत्वी । पतयन्ति । नक्तभिः । ये । वा । रिपः । दधिरे । देवे । अध्वरे ॥vi | tiṣṭhadhvam | marutaḥ | vikṣu | icchata | gṛbhāyata | rakṣasaḥ | sam | pinaṣṭana | vayaḥ | ye | bhūtvī | patayanti | nakta-bhiḥ | ye | vā | ripaḥ | dadhire | deve | adhvare