Sukta 7.104
यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह । इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥
यो माया॑तुं॒ यातु॑धा॒नेत्याह॒ यो वा॑ र॒क्षाः शुचि॑र॒स्मीत्याह॑ । इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ॥
yó māyā́tuṃ yātudhā́nety ā́ha yó vā rákṣāḥ śúcir asmī́ty ā́ha | índras táṃ hantu mahatā́ vadhéna víśvasya jántor adhámas padīṣṭa ||
Whoever calls me ‘one who practices harmful magic’, whoever says ‘I am a pure rakṣas’, let Indra strike him with a mighty blow; let him fall to the lowest footing among all beings.
यः । मा॒ । अया॑तुम् । यातु॑ऽधा॒न । इति॑ । आह॑ । यः । वा॒ । र॒क्षाः । शुचिः॑ । अ॒स्मि॒ । इति॑ । आह॑ । इन्द्रः॑ । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन॑ । विश्व॑स्य । ज॒न्तोः । अ॒ध॒मः । प॒दी॒ष्ट॒ ॥यः । मा । अयातुम् । यातुधान । इति । आह । यः । वा । रक्षाः । शुचिः । अस्मि । इति । आह । इन्द्रः । तम् । हन्तु । महता । वधेन । विश्वस्य । जन्तोः । अधमः । पदीष्ट ॥yaḥ | mā | ayātum | yātu-dhāna | iti | āha | yaḥ | vā | rakṣāḥ | śuciḥ | asmi | iti | āha | indraḥ | tam | hantu | mahatā | vadhena | viśvasya | jantoḥ | adhamaḥ | padīṣṭa