Sukta 7.104
यदि वाहमनृतदेव आस मोघं वा देवाँ अप्यूहे अग्ने । किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निॠथं सचन्ताम् ॥
यदि॑ वा॒हमनृ॑तदेव॒ आस॒ मोघं॑ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने । किम॒स्मभ्यं॑ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निॠ॒थं स॑चन्ताम् ॥
yádi vā́ham anṛ́tadeva ā́sa móghaṃ vā devā́m̐ apyūhé agne | kím asmábhyaṃ jātavedo hṛṇīṣe droghavā́cas te nírṛthaṃ sacantām ||
If I have been one who serves the untrue, or if, O Agni, I have pushed aside the Gods in vain, why do you grow wrathful with us, O Jātavedas? Let those who speak treacherously go to the joyless negation, to the loss of their path.
यदि॑ । वा॒ । अ॒हम् । अनृ॑तऽदेवः । आस॑ । मोघ॑म् । वा॒ । दे॒वान् । अ॒पि॒ऽऊ॒हे । अ॒ग्ने॒ । किम् । अ॒स्मभ्य॑म् । जा॒त॒ऽवे॒दः॒ । हृ॒णी॒षे॒ । द्रो॒घ॒ऽवाचः॑ । ते॒ । नि॒र्ऽऋ॒थम् । स॒च॒न्ता॒म् ॥यदि । वा । अहम् । अनृतदेवः । आस । मोघम् । वा । देवान् । अपिऊहे । अग्ने । किम् । अस्मभ्यम् । जातवेदः । हृणीषे । द्रोघवाचः । ते । निर्ऋथम् । सचन्ताम् ॥yadi | vā | aham | anṛta-devaḥ | āsa | mogham | vā | devān | api-ūhe | agne | kim | asmabhyam | jāta-vedaḥ | hṛṇīṣe | drogha-vācaḥ | te | nir-ṛtham | sacantām