Sukta 7.104
न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् । हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥
न वा उ॒ सोमो॑ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं॑ मिथु॒या धा॒रय॑न्तम् । हन्ति॒ रक्षो॒ हन्त्यास॒द्वद॑न्तमु॒भाविन्द्र॑स्य॒ प्रसि॑तौ शयाते ॥
ná vā u sómo vṛjináṃ hinoti ná kṣatríyaṃ mithuyā́ dhāráyantam | hánti rákṣo hánty ásad vádantam ubhā́v índrasya prásitau śayāte ||
Soma does not drive the crooked one onward, nor the warrior who holds to confusion. He strikes the rakṣas; he strikes the speaker of untruth—both these lie within the reach of Indra’s directed power.
न । वै । ऊँ॒ इति॑ । सोमः॑ । वृ॒जि॒नम् । हि॒नो॒ति॒ । न । क्ष॒त्रिय॑म् । मि॒थु॒या । धा॒रय॑न्तम् । हन्ति॑ । रक्षः॑ । हन्ति॑ । अस॑त् । वद॑न्तम् । उ॒भौ । इन्द्र॑स्य । प्रऽसि॑तौ । श॒या॒ते॒ इति॑ ॥न । वै । ऊँ इति । सोमः । वृजिनम् । हिनोति । न । क्षत्रियम् । मिथुया । धारयन्तम् । हन्ति । रक्षः । हन्ति । असत् । वदन्तम् । उभौ । इन्द्रस्य । प्रसितौ । शयाते इति ॥na | vai | oṃ iti | somaḥ | vṛjinam | hinoti | na | kṣatriyam | mithuyā | dhārayantam | hanti | rakṣaḥ | hanti | asat | vadantam | ubhau | indrasya | pra-sitau | śayāteiti