Sukta 7.104
सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते । तयोर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत् ॥
सु॒वि॒ज्ञा॒नं चि॑कि॒तुषे॒ जना॑य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते । तयो॒र्यत्स॒त्यं य॑त॒रदृजी॑य॒स्तदित्सोमो॑ऽवति॒ हन्त्यास॑त् ॥
suvijñānáṃ cíkituṣe jánāya sác cā́sac ca vácasī paspṛdhāte | táyor yát satyáṃ yátarád ṛ́jīyas tád ít sómo ’vati hánty ásat ||
To the discerning human being the clear knowledge becomes possible: the word of the True and the word of the untrue contend within. Of the two, whatever is truth, whatever is straighter and more right-going—that Soma upholds; and he strikes down the falsehood.
सु॒ऽवि॒ज्ञा॒नम् । चि॒कि॒तुषे॑ । जना॑य । सत् । च॒ । अस॑त् । च॒ । वच॑सी॒ इति॑ । प॒स्पृ॒धा॒ते॒ इति॑ । तयोः॑ । यत् । स॒त्यम् । य॒त॒रत् । ऋजी॑यः । तत् । इत् । सोमः॑ । अ॒व॒ति॒ । हन्ति॑ । अस॑त् ॥सुविज्ञानम् । चिकितुषे । जनाय । सत् । च । असत् । च । वचसी इति । पस्पृधाते इति । तयोः । यत् । सत्यम् । यतरत् । ऋजीयः । तत् । इत् । सोमः । अवति । हन्ति । असत् ॥su-vijñānam | cikituṣe | janāya | sat | ca | asat | ca | vacasī iti | paspṛdhāteiti | tayoḥ | yat | satyam | yatarat | ṛjīyaḥ | tat | it | somaḥ | avati | hanti | asat