Sukta 7.100
किमित्ते विष्णो परिचक्ष्यं भूत्प्र यद्ववक्षे शिपिविष्टो अस्मि । मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥
किमित्ते॑ विष्णो परि॒चक्ष्यं॑ भू॒त्प्र यद्व॑व॒क्षे शि॑पिवि॒ष्टो अ॑स्मि । मा वर्पो॑ अ॒स्मदप॑ गूह ए॒तद्यद॒न्यरू॑पः समि॒थे ब॒भूथ॑ ॥
kím ít te viṣṇo paricákṣyaṃ bhūt prá yád vavákṣe śipiviṣṭó asmi | mā́ várpo asmáda ápa gūha etád yád anyárūpaḥ samithé babhū́tha ||
What is there to be looked at about you, O Vishnu, since I have openly declared, ‘I am Shipiviṣṭa’? Do not hide from us this form of yours—that you become of another appearance in the battle: reveal the divine strategy that conquers by transformation.
किम् । इत् । ते॒ । वि॒ष्णो॒ इति॑ । प॒रि॒ऽचक्ष्य॑म् । भू॒त् । प्र । यत् । व॒व॒क्षे । शि॒पि॒ऽवि॒ष्टः । अ॒स्मि॒ । मा । वर्पः॑ । अ॒स्मत् । अप॑ । गू॒हः॒ । ए॒तत् । यत् । अ॒न्यऽरू॑पः । स॒मि॒थे । ब॒भूथ॑ ॥किम् । इत् । ते । विष्णो इति । परिचक्ष्यम् । भूत् । प्र । यत् । ववक्षे । शिपिविष्टः । अस्मि । मा । वर्पः । अस्मत् । अप । गूहः । एतत् । यत् । अन्यरूपः । समिथे । बभूथ ॥kim | it | te | viṣṇo iti | pari-cakṣyam | bhūt | pra | yat | vavakṣe | śipi-viṣṭaḥ | asmi | mā | varpaḥ | asmat | apa | gūhaḥ | etat | yat | anya-rūpaḥ | samithe | babhūtha